|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.246. अध्यायः 246
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति योगस्वरूपादिनिरूपकशुकसंबोध्यकव्यासवचनानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-246-0x(6241)(75358)
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः।
साङ्ख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया॥ 12-246-1(75359)
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु।
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः॥ 12-246-2(75360)
आत्मनोऽव्यथिनस्तात् ज्ञानमेतदनुत्तमम्।
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना॥ 12-246-3(75361)
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा।
योगदोषान्समुच्छिन्द्यात्पञ्च यान्कवयो विदुः॥ 12-246-4(75362)
कामं क्रोधं त्त लोभं च भयं स्वप्नं च पञ्चमम्।
क्रोधं शमेन जयति कामं संकल्पवर्जनात्॥ 12-246-5(75363)
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति।
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा॥ 12-246-6(75364)
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा।
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात्॥ 12-246-7(75365)
एवमेतान्योगदोषाञ्चयेन्नित्यमतन्द्रितः।
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च॥ 12-246-8(75366)
वर्जयेदुशतीं वाचं हिंसायुक्तां मनोनुदाम्।
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं ततम्॥ 12-246-9(75367)
एतस्य सूत्रभूतस्य द्वयं स्थावरजङ्गमम्।
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा॥ 12-246-10(75368)
शोचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति॥ 12-246-11(75369)
सिद्ध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्धते।
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयेत्॥ 12-246-12(75370)
धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्॥ 12-246-13(75371)
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः।
पूर्वरात्रेऽपरात्रे च धारयेन्मन आत्मनि॥ 12-246-14(75372)
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम्।
ततोऽस्य स्रवते प्रज्ञा दृतेः पादादिवोदकम्॥ 12-246-15(75373)
मनस्तु पूर्वमादद्यात्कुमीनमिव मत्स्यहा।
ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित्॥ 12-246-16(75374)
तत एतानि संयम्य मनसि स्थापयेद्यतिः।
तथैवापो ह्यसंकल्पान्मनो ह्यात्मनि धारयेत्॥ 12-246-17(75375)
पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद्यतिः।
यदैतान्यवतिष्ठन्ति मनःषष्ठानि चात्मनि॥ 12-246-18(75376)
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते।
विधूम इव सप्तार्चिरादित्य इव दीप्तिमान्॥ 12-246-19(75377)
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि।
सर्वस्तत्र स सर्वत्र व्यापकत्वाच्च दृश्यते॥ 12-246-20(75378)
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः।
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः॥ 12-246-21(75379)
एवं परिमितं कालमाचरन्संशितव्रतः।
आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम्॥ 12-246-22(75380)
विमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने।
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः॥ 12-246-23(75381)
प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः।
तांस्तत्त्वविदनादृत्य आत्मन्येव निवर्तयेत्॥ 12-246-24(75382)
कुर्यात्परिचयं योगे त्रैकाल्ये नियतो मुनिः।
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजयेत्॥ 12-246-25(75383)
संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव।
एकाग्रं चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः॥ 12-246-26(75384)
येनोपायेन शक्येत संनियन्तुं चलं मनः।
तत्तद्युक्तो निषेवेत न चैव विचलेत्ततः॥ 12-246-27(75385)
शून्या गिरि---श्वैव देवतायतनानि च।
शून्यागारा---काग्रो निवासार्थमुपक्रमेत्॥ 12-246-28(75386)
नाभिष्व---वाचा कर्मणा मनसाऽपि वा।
उपे-----रो लब्धालब्धे समो भवेत्॥ 12-246-29(75387)
यश्चैन-----न्देत यश्चैनमभिवादयेत्।
समस्त-----भयोर्नाभिध्यायेच्छुभाशुभम्॥ 12-246-30(75388)
न प्रहृ---भेषु नालाभेषु च चिन्तयेत्।
समः स-------षु सधर्मा मातरिश्वनः॥ 12-246-31(75389)
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः।
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते॥ 12-246-32(75390)
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः।
एतस्मिन्निरतो मार्गे विरमेन्न च मोहितः॥ 12-246-33(75391)
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम्॥ 12-246-34(75392)
अजं पुराणमजरं सनातनं
यदिन्द्रियैरुपलभेत निश्चलैः।
अणोरणीयो महतो महत्तरं
तदात्मना पश्यति युक्तमात्मवान्॥ 12-246-35(75393)
इदं महर्षेर्वचनं महात्मनो
यथावदुक्तं मनसाऽनुदृश्य च।
अवेक्ष्य चेमां परमेष्ठिसाम्यतां
प्रयान्ति यां भूतगतिं मनीषिणः॥ ॥ 12-246-36(75394)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्चत्वारिंशदधिकद्विशततमोऽध्यायः॥ 246॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-246-3 आत्मनो व्ययिन इति ध. पाठः॥ 12-246-9 सर्वमिदं रस इति झ. पाठः॥ 12-246-10 एकस्य सर्वं भूतस्येति ड. पाठः॥ 12-246-12 विज्ञानं च प्रकाशत इति ड. थ. पाठः॥ 12-246-15 दृतेश्वर्मकोशस्य॥ 12-246-16 कुमीनं जालदंशक्षमं मीनम्। कुलीरमिव मत्स्यहेति ड. थ. पाठः॥ 12-246-18 तं च ज्ञानेनेति ड. थ. पाठः। पञ्चज्ञानेन संधाय मनः संस्थापयेद्यतिरिति ध. पाठः॥ 12-246-23 प्रमादो भ्रम इति ड.थ. पाठः॥ 12-246-24 मनसैव निवर्तयेदिति ड. थ. पाठः॥ 12-246-26 कोष्ठं भाण़्डं यथैय चेति ध. पाठः॥ 12-246-30 यश्चैनमभिनन्देत यश्चैनमपवादयेत् इति झ. पाठः॥ 12-246-32 सर्वात्मना साधोरिति ड. पाठः। स्वस्थात्मन इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|